Go To Mantra
Select by Archik

अ꣣य꣢ꣳ स꣣ह꣢स्र꣣मा꣡न꣢वो दृ꣣शः꣡ क꣢वी꣣नां꣢ म꣣ति꣢꣫र्ज्योति꣣र्वि꣡ध꣢र्म । ब्र꣣ध्नः꣢ स꣣मी꣡ची꣢रु꣣ष꣢सः꣣ स꣡मै꣢रयदरे꣣प꣢सः꣣ स꣡चे꣢त꣣सः स्व꣡स꣢रे मन्यु꣣म꣡न्त꣢श्चि꣣ता꣢ गोः ॥४५८॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

अयꣳ सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म । ब्रध्नः समीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥४५८॥

Mantra Audio
Pad Path

अ꣣य꣢म् । स꣣ह꣡स्र꣢म् । आ꣡न꣢꣯वः । दृ꣣शः꣢ । क꣣वीना꣢म् । म꣣तिः꣢ । ज्यो꣡तिः꣢꣯ । वि꣡ध꣢꣯र्म । वि । ध꣣र्म । ब्रध्नः꣢ । स꣣मी꣡चीः꣢ । स꣣म् । ई꣡चीः꣢꣯ । उ꣣ष꣡सः꣢ । सम् । ऐ꣣रयत् । अरेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स꣡चे꣢꣯तसः । स । चे꣣तसः । स्व꣡स꣢꣯रे । म꣣न्युम꣡न्तः꣢ । चि꣣ताः꣢ । गोः ॥४५८॥

Samveda » - पूर्वार्चिकः » Mantra Sankhya - 458 | (Kauthum) 5 » 2 » 3 » 2 | (Ranayaniya) 4 » 12 » 2